हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Trucha Kalpa Surya Arghya Krama – तृचाकल्प सूर्य अर्घ्यप्रदान क्रमः


आचम्य । प्राणानायम्य । देशकालौ संकीर्त्य । गणपति पूजां कृत्वा ।

संकल्पः –
पूर्वोक्त एवं गुणविशेषण विशिष्टायां शुभतिथौ श्रुति स्मृति पुराणोक्त फलप्राप्त्यर्थं श्रीसवितृसूर्यनारायण प्रीत्यर्थं भविष्योत्तरपुराणोक्त तृचार्घ्य पूर्वक प्रसन्नार्घ्यप्रदानानि च करिष्ये ।

ध्यानम् –
ध्येयः सदा सवितृमंडलमध्यवर्ती
नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान् मकरकुंडलवान् किरीटी
हारी हिरण्मयवपुर्धृतशंखचक्रः ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां उ॒द्यन्न॒द्य मि॑त्रमहः ह्रां ओं । मित्राय नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ १ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रीं आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् ह्रीं ओं । रवये नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ २ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रूं हृ॒द्रो॒गं मम॑ सूर्य ह्रूं ओं । सूर्याय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ ३ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रैं हरि॒माणं᳚ च नाशय ह्रैं ओं । भानवे नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ ४ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रौं शुके᳚षु मे हरि॒माणं᳚ ह्रौं ओं । खगाय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ ५ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रः रोप॒णाका᳚सु दध्मसि ह्रः ओं । पूष्णे नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ ६ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां अथो᳚ हारिद्र॒वेषु॑ मे ह्रां ओं । हिरण्यगर्भाय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ ७ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रीं हरि॒माणं॒ निद॑ध्मसि ह्रीं ओं । मरीचये नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ ८ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रूं उद॑गाद॒यमा᳚दि॒त्यः ह्रूं ओं । आदित्याय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ ९ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रैं विश्वे᳚न॒ सह॑सा स॒ह ह्रैं ओं । सवित्रे नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ १० ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रौं द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न्न्॑ ह्रौं ओं । अर्काय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ ११ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रः मो अ॒हं द्वि॑ष॒ते र॑धम् ह्रः ओं । भास्कराय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ १२ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां ह्रीं उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् ह्रां ह्रीं ओं । मित्ररविभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ १३ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रूं हैं हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय ह्रूं ह्रैं ओं । सूर्यभानुभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ १४ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रौं ह्रः शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि ह्रौं ह्रः ओं । खगपूषभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ १५ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां ह्रीं अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ह्रां ह्रीं ओं । हिरण्यगर्भमरीचिभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ १६ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रूं ह्रैं उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह ह्रूं ह्रैं ओं । आदित्यसवितृभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ १७ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रौं ह्रः द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् ह्रौं ह्रः ओं । अर्कभास्कराभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ १८ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां ह्रीं ह्रूं ह्रैं उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् । हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय । ह्रां ह्रीं ह्रूं ह्रैं ओं । मित्ररविसूर्यभानुभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ १९ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रौं ह्रः ह्रां ह्रीं शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि । अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि । ह्रौं ह्रः ह्रां ह्रीं ओं । खगपूषहिरण्यगर्भमरीचिभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ २० ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रूं ह्रैं ह्रौं ह्रः उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह । द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् । ह्रूं ह्रैं ह्रौं ह्रः ओं । आदित्यसवित्रर्कभास्करेभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ २१ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः
उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् ।
हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय ।
शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि ।
अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ।
उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह ।
द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् ।
ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ओं । मित्र रवि सूर्य भानु खग पूष हिरण्यगर्भ मरीच्यादित्यसवित्रर्क भास्करेभ्यो नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ २२, २३, २४ ॥ (इति त्रिः)

——
प्रार्थन प्रसन्नार्घ्यप्रदानं –

ओं अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज᳚म् । होता᳚रं रत्न॒धात॑मम् ॥
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः ऋग्वेदात्मने प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ १ ॥

ओं इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑: स्थोपा॒यव॑: स्थ दे॒वो व॑: सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आ प्या॑यध्वमघ्निया देवभा॒गमूर्ज॑स्वती॒: पय॑स्वतीः प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्माः मा व॑: स्ते॒न ई॑शत॒ माऽघशग्ं॑सो रु॒द्रस्य॑ हे॒तिः परि॑ वो वृणक्तु ध्रु॒वा अ॒स्मिन् गोप॑तौ स्यात ब॒ह्वीर्यज॑मानस्य प॒शून् पा॑हि ॥
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः यजुर्वेदात्मने प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ २ ॥

ओं अग्न॒ आ या᳚हि वी॒तये᳚ गृणा॒नो ह॒व्यदा᳚तये । नि होता᳚ सत्सि ब॒र्हिषि॑ ॥
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः सामवेदात्मने प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ ३ ॥

ओं शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚ । शं योर॒भिस्र॑वन्तु नः ॥
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः अथर्ववेदात्मने प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ ४ ॥

ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः उपनिषदात्मने प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ ५ ॥

ओं आ स॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्य॑ञ्च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒नाऽऽदे॒वो या॑ति॒ भुव॑ना वि॒पश्यन्॑ ॥
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ ६ ॥

ओं उदु॒ त्यं जा॒तवे᳚दसं दे॒वं व॑हन्ति के॒तव॑: । दृ॒शे विश्वा᳚य॒ सूर्य᳚म् ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ ७ ॥

ओं उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य᳚न्त॒ उत्त॑रम् ।
दे॒वं दे᳚व॒त्रा सूर्य॒मग᳚न्म॒ ज्योति॑रुत्त॒मम् ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ ८ ॥

ओं चि॒त्रं दे॒वाना॒मुद॑गा॒दनी᳚कं॒ चक्षु᳚र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आप्रा॒ द्यावा᳚पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ ९ ॥

ओं हं॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता᳚ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो᳚म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम् ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ १० ॥

ओं स॒वि॒ता प॒श्चाता᳚त्सवि॒ता पु॒रस्ता᳚त्सवि॒तोत्त॒रात्ता᳚त्सवि॒ताध॒रात्ता᳚त् ।
स॒वि॒ता न॑: सुवतु स॒र्वता᳚तिं सवि॒ता नो᳚ रासतां दी॒र्घमायु॑: ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ ११ ॥

ओं आ॒दि॒त्यो वा ए॒ष ए॒तन्म॒ण्डलं॒ तप॑ति॒ तत्र॒ ता ऋच॒स्तदृ॒चा म॑ण्डल॒ग्ं॒ स ऋ॒चां लो॒कोऽथ॒ य ए॒ष ए॒तस्मि॑न्म॒ण्डले॒ऽर्चिर्दी॒प्यते॒ तानि॒ सामा॑नि॒ स सा॒म्नां लो॒कोऽथ॒ य ए॒ष ए॒तस्मि॑न्म॒ण्डले॒ऽर्चिषि॒ पुरु॑ष॒स्तानि॒ यजूग्ं॑षि॒ स यजु॑षा मण्डल॒ग्ं॒ स यजु॑षां लो॒कः सैषा त्र॒य्येव॑ वि॒द्या त॑पति॒ य ए॒षो᳚ऽन्तरा॑दि॒त्ये हि॑र॒ण्मय॒: पुरु॑षः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ १२ ॥

ओं आ॒दि॒त्यो वै तेज॒ ओजो॒ बलं॒ यश॒श्चक्षु॒: श्रोत्र॑मा॒त्मा मनो॑ म॒न्युर्मनु॑र्मृ॒त्युः
स॒त्यो मि॒त्रो वा॒युरा॑का॒शः प्रा॒णो लो॑कपा॒लः कः किं कं तत्स॒त्यमन्न॑म॒मृतो॑
जी॒वो विश्व॑: कत॒मः स्वय॒म्भु ब्रह्मै॒तदमृ॑त ए॒ष पुरु॑ष ए॒ष भू॒ताना॒मधि॑पति॒र्ब्रह्म॑ण॒: सायु॑ज्यग्ं सलो॒कता॑माप्नोत्ये॒तासा॑मे॒व
दे॒वता॑ना॒ग्ं सायु॑ज्यग्ं सा॒र्ष्टिताग्ं॑ समानलो॒कता॑माप्नोति॒ य ए॒वं वेदे᳚त्युप॒निषत् ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ १३ ॥

ओं घृणि॒: सूर्य॑ आदि॒त्यो न प्रभा॑ वा॒त्यक्ष॑रम् । मधु॑ क्षरन्ति॒ तद्र॑सम् ।
स॒त्यं वै तद्रस॒मापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ १४ ॥

ओं भा॒स्क॒राय॑ वि॒द्महे॑ महद्द्युतिक॒राय॑ धीमहि । तन्नो॑ आदित्यः प्रचो॒दया᳚त् ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ १५ ॥

ओं आ॒दि॒त्याय॑ वि॒द्महे॑ सहस्रक॒राय॑ धीमहि । तन्न॑: सूर्यः प्रचो॒दया᳚त् ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ १६ ॥

ओं हं॒स॒ हं॒साय॑ वि॒द्महे॑ परमहं॒साय॑ धीमहि । तन्नो॑ हंसः प्रचो॒दया᳚त् ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ १७ ॥

अनेन तृचार्घ्यपूर्वक प्रार्थन प्रसन्नार्घ्यप्रदानैश्च भगवान् सर्वात्मकः श्रीपद्मिनी उषा छाया समेत श्रीसवितृसूर्यनारायण सुप्रीतो सुप्रसन्नो भवंतु ॥


Sri Surya Stotras – श्री सूर्य स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.